॥ श्री सङ्कटनाशन गणेश स्तोत्रम् ॥ नारद उवाच प्रणम्य शिरसा देवंगौरीपुत्रं विनायकम्। भक्तावासं स्मेरनित्यमाय्ःकामार्थसिद्धये॥1॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्। तृतीयं कृष्णपिङ्गाक्षंगजवक्त्रं चतुर्थकम्॥2॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च। सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकम्॥3॥
नवमं भालचन्द्रं च दशमं तु विनायकम। एकादशं गणपतिंद्वादशं तु गजाननम॥4॥
द्वादशैतानि नामानित्रिसन्ध्यं यः पठेन्नरः। न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो॥5॥
विद्यार्थी लभते विद्यांधनार्थी लभते धनम्। पुत्रार्थी लभतेपुत्रान्मोक्षार्थी लभते गतिम्॥6॥
जपेद्गणपतिस्तोत्रंषड्भिर्मासैः फलं लभेत्। संवत्सरेण सिद्धिं च लभते नात्र संशयः॥7॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां यः समर्पयेत्। तस्य विद्या भवेत्सर्वागणेशस्य प्रसादतः॥8॥