॥ श्रीसरस्वतीद्वादशनामस्तोत्रम् ॥ सरस्वतीमहं वन्देवीणापुस्तकधारिणीम्। हंसवाहसमायुक्तांविद्यादानकरीं मम॥1॥
प्रथमं भारती नाम द्वितीयं च सरस्वती। तृतीयं शारदा देवीचतुर्थं हंसवाहिनी॥2॥
पश्चमं जगति ख्याताषष्ठं वाणीश्वरी तथा। कौमारी सप्तमं प्रोक्ताअष्टमं ब्रह्मचारिणी॥3॥
नवमं बुद्धिदात्री च दशमं वरदायिनी। एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी॥4॥
ब्राह्मी द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः। सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी। सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती॥5॥